|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.221. अध्यायः 221
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति अनकं प्रत्युक्तपञ्चशिखवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
`*भीष्म उवाच। 12-221-0x(6100)(73973)
जनको नरदेवस्तु ज्ञापितः परमर्षिणा।
पुनरेवानुपप्रच्छ सांपराये भवाभवौ॥ 12-221-1(73974)
भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित्।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति॥ 12-221-2(73975)
विवादादेव सिद्धोऽसौ कारणस्येव वेदना।
चेतनो विद्यते ह्यत्र हैतुकं च मनोगतम्॥ 12-221-3(73976)
आगमादेव सिद्धोऽसौ स्वताः सिद्धा इति श्रुतिः।
वर्तते पृथगन्योन्यं न ह्यपःश्रित्य कर्मसु॥ 12-221-4(73977)
चेतनो ह्यंशवस्तत्र स्वमूर्तं धारयन्त्यतः।
स्वभावं पौरुषं कर्म ह्यात्मानं तमुपाश्रितम्।
तमाश्रित्य प्रवर्तन्ते देहिनो देहबन्धनाः॥ 12-221-5(73978)
गुणज्ञानमभिज्ञानं तस्य लिङ्गानुशब्दयत्।
पृथिव्यादिषु भूतेषु तत्तदाहुर्निदर्शनम्॥ 12-221-6(73979)
आत्माऽसौ वर्तते भिन्नस्तत्रतत्र समन्वितः।
परमात्मा तथीवैको देवेऽस्मिन्निति वै श्रुतिः॥ 12-221-7(73980)
आकाशं वायुरूष्भा च स्नेहो यच्चापि पार्थिवम्।
यथा त्रिधा प्रवर्तन्ते तथाऽसौ पुरुषः स्मृतः॥ 12-221-8(73981)
पपस्यन्तर्हितं यद्वत्तद्वद्व्याप्तं महात्मकम्।
पूर्वं नैश्चर्ययोगेन तस्मादेतन्न शेपवान्॥ 12-221-9(73982)
शब्दाः कालः क्रिया देहो ममैकस्वैव कल्पना।
स्वभावं तन्मयं त्वेदं मायारूपं तु भेदवत्॥ 12-221-10(73983)
नानाख्यं परं शुद्धं निर्विकल्पं परात्मकम्।
लिङ्गादि देवमध्यास्ते ज्ञानं देवस्य तत्तथा॥ 12-221-11(73984)
चिन्मयोऽयं हि नादाख्यः शब्दश्चासौ मनो महान्।
गतिमानुत संधत्ते वर्णमत्तत्पदान्वितम्॥ 12-221-12(73985)
कायो नास्ति च तेषां वै अवकाशस्तथा परम्।
एतेनोढा इति चाख्याताः सर्वे ते धर्मदूषकाः॥ 12-221-13(73986)
अवन्धनमविज्ञानाज्ज्ञानं तद्भुवमव्ययम्।
नानाभेदविकल्पने येषामात्मा स्मृतः सदा॥ 12-221-14(73987)
प्रकृतेरपरस्तेषां बहवोऽप्यात्मवादिनः।
विरोधो ह्यात्मसन्मायां न तेषां सिद्ध एव हि।
अन्यदा च गृहीतै-----वेदबाह्यास्ततः स्मृताः॥ 12-221-15(73988)
एकानेकात्मकं तेषां प्रतिषेधो हि भेदनुत्।
तस्माद्वेदस्य हृदयमद्वैध्यमिति विद्धि तत्॥ 12-221-16(73989)
वेदादृष्टेरयं लोकः सर्वार्थेषु प्रवर्तते।
तस्माच्च स्मृतयो जाताः सेतिहासाः पृथग्विधाः॥ 12-221-17(73990)
न यन्न साध्यं तद्ब्रह्म नादिमध्यं न चान्तवत्।
इन्द्रियाणि च भूरीणि परा च प्रकृतिर्मनः॥ 12-221-18(73991)
आत्मा च परमः शुद्धः प्रोक्तोऽसौ परमः पुमान्॥ 12-221-19(73992)
उत्पत्तिलक्षणं चेदं विपरीतमथोभयोः।
यो वेत्ति प्रकृतिं नित्यं तथा चैवात्मनस्तु ताम्।
प्रदहत्येष कर्माख्यं दावोद्भूत इवानलः॥ 12-221-20(73993)
चिन्मात्रपरमः शुद्धः सर्वाकृतिषु वर्तते॥ 12-221-21(73994)
आकाशकल्पं विमलं नानाशक्तिसमन्वितम्।
तापनं सर्वभूतानां ज्योतिषां मध्यमस्थितिम्।
दुःखमस्ति न निर्दुःखं तद्विद्वान्न च लिप्यति॥ 12-221-22(73995)
असावश्नाति यद्वत्तद्वमरोऽश्नाति यन्मधु।
एवमेव महानात्मा नात्मानमवबुध्यते॥ 12-221-23(73996)
एवंभूतस्त्वमित्यत्र स्वाधितो बुद्ध्यते परम।
बुधस्य बोधनं तत्र क्रियते सद्भिरित्युत।
न बुधस्येति वै कश्चिन्न तथावच्छृणुष्व मे॥ 12-221-24(73997)
शोकमस्य न गत्वा ते शास्त्राणां शास्त्रदस्यवः।
लोकं निध्नन्ति संभिन्ना ज्ञातिनोत्र वदन्त्युत॥ 12-221-25(73998)
एवं तस्य विभोः कृत्यं धातुरस्य महात्मनः।
क्षमन्ति ते महात्मानः सर्वद्वन्द्वविवर्जिताः॥ 12-221-26(73999)
अतोऽन्यथा महात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा॥ 12-221-27(74000)
तस्य संयोगयोगेन शुचिरप्यशुचिर्भवेत्।
अशुचिश्च शुचिश्चापि ज्ञानाद्देहादयो यथा॥ 12-221-28(74001)
दृश्यं न चैव दृष्टं स्याद्दृष्टं दृश्यं तु नैव च॥ 12-221-29(74002)
अतीतत्रितयाः सिद्धा ज्ञानरूपेण सर्वदा।
एवं न प्रतिपद्यन्ते रागमोहमदान्विताः॥ 12-221-30(74003)
वेदबाह्या दुरात्मानः संसारे दुःखभागिनः।
आगमानुगतज्ञाना बुद्धियुक्ता भवन्ति ते॥ 12-221-31(74004)
बुद्ध्या भवति बुद्ध्या त्वं यद्बुद्धं चात्मरूपवत्।
तमस्यन्धे न संदेहात्परं यान्ति न संशयः॥ 12-221-32(74005)
नित्यनैमित्तिकान्कृत्वा पापहानिमवाप्य च।
शुद्धसत्वा महात्मानो ज्ञाननिर्धूतकल्मषाः॥ 12-221-33(74006)
असक्ताः परिवर्तन्ते संसरन्त्यथ वायुवत्।
न युज्यन्तेऽथवा क्लेशैरहंभावोद्भवैः सह॥ 12-221-34(74007)
इतस्ततः समाहृत्य ज्ञानं निर्वर्णयन्त्युत।
ज्ञानान्वितस्तमो हन्यादर्कवत्स महामतिः॥ 12-221-35(74008)
एवमात्मानमन्वीक्ष्य नानादुःखसमन्वितम्।
देहं पङ्कमले मग्नं निर्मलं परमार्थतः॥ 12-221-36(74009)
तमेवं सर्वदुःखात्तु मोचयेत्परमात्मवान्।
ब्रह्मचर्यव्रतोपेतः सर्वसङ्गबहिष्कृतः।
लघ्वाहारो विशुद्धात्मा परं निर्वाणमृच्छति॥ 12-221-37(74010)
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च।
आनुपूर्व्याद्विनश्यन्ति स्वं धातुमुपयान्ति च॥ 12-221-38(74011)
कारणानुगतं कार्यं यदि तच्च विनश्यति।
अलिङ्गस्य कथं लिङ्गं युज्यते तन्मृषा दृढम्॥ 12-221-39(74012)
न त्वेव हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः।
अमर्त्यस्य च मर्त्येन सामान्यं नोपपद्यते॥ 12-221-40(74013)
लोकदृष्टो यथा जातेः स्वेदजः पुरुषः स्त्रियाम्।
कृतानुस्मरणात्सिद्धो वेदगम्यः परः पुमान्॥ 12-221-41(74014)
प्रत्यक्षानुगतो वेदो नामहेतुभिरिष्यते॥ 12-221-42(74015)
यथा शाखा हि वै शाखा तरोः संबध्यते तदा।
श्रुत्या तथापरोप्यात्मा दृश्यते सोऽप्यलिङ्गवान्।
अलिङ्गसाध्यं तद्ब्रह्म बहवः सन्ति हेतवः॥ 12-221-43(74016)
लोकयात्राविधानं च दानधर्मफलागमः।
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः॥ 12-221-44(74017)
इति सम्यङ्भनस्येते बहवः सन्ति हेतवः।
एतदस्तीदमस्तीति न किंचित्प्रतिदृश्यते॥ 12-221-45(74018)
तेषां विमृशतामेवं तत्तत्समभिधावताम्।
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत्॥ 12-221-46(74019)
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः।
आगमैरपकृष्यन्ति हस्तिनो हस्तिपैर्यथा॥ 12-221-47(74020)
न जातु कामः कामामामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिर्वधते॥ 12-221-48(74021)
अर्थांस्तथाऽत्यन्तदुःखाबहांश्च
लिप्सन्त एके बहवो विशुष्काः।
महत्तरं दुःखमभिप्रपन्ना
हित्वा सुखं मृत्युवशं प्रयान्ति॥ 12-221-49(74022)
विनाशिनो ह्यध्रुवजीवितस्य
किं बन्धुभिर्मन्त्रपरिग्रहैश्च।
विहाय यो गच्छति सर्वमेव
क्षणेन गत्वा न निवर्तते च॥ 12-221-50(74023)
स्वं भूमितोयानलवायवो हि
सदा शरीरं प्रतिपालयन्ति।
इतीदमालक्ष्य कुतो रतिर्भवे
द्विनाशिनो ह्यस्य न कर्म विद्यते॥ 12-221-51(74024)
इदमनुपधिवाक्यमच्छलं
परमनिरामयमात्मसाक्षिकम्।
नरपतिरनुवीक्ष्य विस्मितः
पुनरनुयोक्तुमिदं प्रचक्रमे॥' ॥ 12-221-52(74025)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः॥ 221॥
Mahabharata - Shanti Parva - Chapter Footnotes
* अयमध्यावो व. पुस्तकएव दृश्यते।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|